च्यवनः
यन्नामादिनामभावात्क्लिष्टत्वाच्च वाचां दुष्करमिदं पद्यं तद्वयं व्याख्यास्यामः । न पुनः कवौ सम्मानात् । दम्भी हि कविः कलावप्यात्मानमृषिवन्मन्वानः कांश्चिच्छान्दसान्प्रयुङ्क्ते शब्दान् ।च्यवनस्य हि भार्ग्गवस्य कथेयम् । तद्धि ब्राह्मणेषु भारतादिषु च पुराणेषु श्रुतं नो यच्च्यवनो हि भार्ग्गवश्चरमाणो मानवानां ग्राममभ्यजगामेति । ग्रामीणाश्च बालका घोररूपं जराजीर्ण्णमेनं कृत्याऽयमिति मन्वानाश्शकृत्पिण्डैरदिहन् । तद्धि जैमिनीये ब्राह्मणे - “तं तुष्टुवानं शर्यातो मानवो ग्रामेणाध्यवास्यत् । तं कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैरासपांसुभिरदिहन् । सोऽसंज्ञां शार्यात्येभ्योऽकरोत् । तन्न माता पुत्रमजानान्, न पुत्रो मातरम् । सोऽब्रवीच्छर्यातो मानवः - किमिहाभितः किं चिदद्राष्ट, यदिदमित्थमभूदिति। तस्मै होचुर्न नु ततोऽन्यत् - स्थविर एवायं निष्ठावश्शेते । तमद्य कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैरासपांसुभिरधिक्षन्। तत इदमित्थमभूदिति ॥”
त्रिष्टुभेव सर्वत्र छन्दः । बालकानां च्यवनस्य च संवादोऽयम् -
बालकानामुक्तिरेषा | परेयुषां क्वसु इतः | परेयुषां मृतानाम् | तेषां पन्थां परेह्यनुसरेति | म्रियतामपसदेति | य इह कृत्येव सस्सि शेषे | वसँ धातुः स्वप्ने | तच्चोक्तं धातुवृत्त्यां सायणेन “षसादय उदात्ता उदात्तेतः | स्वप्ने | अयं पाठो मैत्रेयात्रेयादीनामत्र केचित् षस्तीति न पृथग् धातुर्”| इत्यादि | ऋग्वेदे चेयमृग्वसिष्ठस्याऽर्षम् -
पुमान्सन्निति कृत्यानां प्रायशोऽपि स्त्रीवाच्यत्वात् । यात्वो यातुशब्दस्य षष्ठी । अभिचारस्य ते नहि शक्तिरस्ति या नो विहिंस्यादित्यर्त्थः । नकिः ष्यादित्यस्मिन्सस्य षत्वमत्र छान्दसः । ऋग्वेदे यथेयमृक्प्रस्यस्वनस्य हाऽत्रेयस्याऽर्षम् -
मित्रश्च देवो वरुणेन सह भूतानि पश्यन्विश्वानि त्वादृशां यातुधानानां कृत्यानां वा माया अभिचारशक्तीर्म्मिनाति न्यूनीकुरुत इति । मित्रावरुणयोश्च नित्यं द्विवचन उक्तत्वाद्यातुधानानां रक्षसां च दमितृत्वादुल्लेखः संगतोऽत्र । द्वे च च्यवनस्य प्रत्युक्ती।
ऋतं यश्चरति वदति च स ऋतावान् । ऋतवत ऋतावांश्च छान्दसः । रपन्तो रपो व्यक्तायां वाचि । लपतीति । यथा च - “ऋतं वदन्तो अनृतं रपेम ।” यन्मां यूयमघशंसाः पाप्मनः स्तोतारो दुष्टा मा धार्म्मिकमपि जनमवहेलनयाऽध्यक्षैप्तोपहसथ तदहं वोऽङ्गिरसां सुत आङ्गिरसोऽङ्गिरोवंशजः शशप्ये शापं हिनोमीति । अहं हि मन्त्रशक्तियुत ऋषिरस्मि । कविर्ह्हि शब्द ऋषिं बोधयति । मयोक्तं वचः कविशस्तमृघावद्बलवत्सत्यं चाऽस्ति । अवश्यमपि युष्मान्मम शापो हिंसिष्यतीत्यर्त्थः । ऋघावच्छब्देनाऽत्र ऋतावद्ध्वन्यते । कविशस्तं यथा संहितायामार्षं दीर्ग्घतमस औचथ्यस्य -
उक्तिश्चाऽन्त्या च्यवनस्य शाप एव -
लेटः प्रयोगोऽत्र बहुधा । युध्यन्त युधो धातोर्ज्जानांश्च ज्ञायाः । छान्दासोऽयं प्रयोगो लोके लेटोऽभावात् । पुत्रा विमर्षिता अमर्षिताः सन्तः स्वेभिः पितृभिर्य्युध्यन्त योधयिष्यन्ति । भ्रातरश्च तथा भ्रातृभिः । बहुवचनेऽकारान्तस्य शब्दस्य प्रथमाऽस इति छान्दसः । मातरं च न पुत्रा न ज्ञास्यन्ति । युष्माकं शकृत्पिण्डप्रहारेण क्रुद्धोऽहं कृणोमि करोम्येवाऽसञ्ज्ञां मतिहीनत्वमिति । विश्वमपि जनं शापोऽयमावृणोति चराचरस्य हि लोकस्य पाञ्चजन्यस्य बन्धूनां गणैः क्रियमाणत्वात् । विदितमेव सर्व्वेषां पश्चाद्धि कथं शर्य्यातो ह मानवश्च्यवनाय दुहितरं ददिवान्स्वां सुकन्यां नाम शमयामासाऽमीवां कथं चाऽश्विनौ प्रापतुर्ब्भागं यज्ञस्येति । तद्धि जैमिनीये शतपथे च ब्राह्मणयोर्ब्भारते च दर्शितमेव । नाऽत्राऽतिविस्तरमीमहे । नाऽतिविस्तरमीमहे ।