Post

Struwwelpeter

Struwwelpeter Sanskrit Poetry Indic Mine Samaya

Struwwelpeter
This picture is etched in my memory.

Metrical : (उपजाति)

शर्म्मण्यदेशेऽथ पुरा बभूव कीर्ण्णोपलो नाम ह बालको यः न पालयामास पितुर्व्वै वाक्यं मा पुत्र चूषींरथ शक्वरीं त्वम् ॥ १ ॥ ‎ स दुर्व्विनेयो जनकस्य वाचं युक्तामनादृत्य यदास चूषन् तं सूचिकः कश्चिदथाजगाम कृवीं दधानोऽतिकरालदर्शी ॥ २ ॥ ‎ उवाच सौचिर्ब्बत बालकानां मदं निहन्तुं ह्यविनेयकानाम् कार्य्यं ममास्तीति ततश्च तूर्ण्णं चकर्त्त बालस्य हताङ्गुलान्सः ॥ ३ ॥

Prose:

अत्राप्युदाहरन्त्येवम् । पुरा ह शर्म्मण्यदेशे त्वः कीर्ण्णोपलो नाम बालक आस । दुर्व्विनेयं च तं पिता हैवमाह - मा पुत्त्र चूषीरथ त्वमङ्गुलीरिति । मा हैनं पथं व्राजीरिति । तन्न शुश्राव । न चानुमेने कीर्ण्णोपलः । ततो ह बालमेनं वावाजगाम सूचिकः कृवीं महतीं दधानः । स च घोरदर्शनो होवाच दुर्व्विनीतानां बालानां मदं किलाहं हन्मीति । स वै चकर्त्त ह कीर्ण्णोपलस्य शक्वरीश्चेति । इति शम् ॥

Share this article

  • X
  • Facebook
  • LinkedIn
  • Reddit
  • WhatsApp
  • Telegram
  • Pinterest
  • Bluesky
Categories
Tags

Related writing

शुकविलापः

The following is a Sanskrit translation of Lekhnath Paudyal’s 1917 poem पिंजडाको सुगा (Parrot in a Cage) that I did a couple of years ago....

Read article

च्यवनः

PDF Version यन्नामादिनामभावात्क्लिष्टत्वाच्च वाचां दुष्करमिदं पद्यं तद्वयं व्याख्यास्यामः । न पुनः कवौ सम्मानात् । दम्भी हि कविः...

Read article