Post
An Extract from my Historical Epic
Introduction
I have a passing interest in many things. History, and especially South Asian history, is one of them. I don’t write much creative writings in other languages but have a mind to write on many subjects of interest in Sanskrit. I’m someway into my History of the Kings of Nepal in verse. Another is a large, intergenerational saga set in early Vedic age. I’ve more or less a complete summary in prose of this one but it would take a long time to commit to verse and amplify. Another is a long historical epic set in the late 13th and early 14th centuries. It would cover the fall of all the old South Indian kingdoms before the might of the Delhi Sultans and the subsequent rise of Vijayanagara. In flashback scenes and nested narratives, it would also cover the fall of Rajput Kingdoms at Tarain in 1191 CE as well as the Pandyan Civil Wars.
The part that follows describes the fall of the Kampili kingdom when Bahauddin Gurshasp, the cousin of Muhammad Bin Tughluq (r. 1325-1351), rebelled against the Delhi Sultanate, was defeated and sought refuge with the eponymous king of Kampili. After some failed raids, the Sultan finally sent a larger force to subdue the Kingdom. After a month of siege, Kampili and his men made a final charge on the Sultan’s armies and were all killed while the womenfolk committed jahaur. Gurshasp was sent to King Bira Ballala III before this final stand but the old king gave him up to the Sultan’s men.
Devanagari (देवनागरी)
माधव उवाच प्राणभाजः श्वसन्तीति किमु चित्रं धरातले । यः कीर्त्या स्मर्यते प्राप्तजन्मान्तरः स जीवति ॥ १ ॥ अस्त्यगस्त्यपदज्योत्स्नापावनीकृतभूतले । देशः कर्णाटको नाम विपुले दक्षिणापथे ॥ २ ॥ किष्किन्धामभिसिञ्चन्ती नीलाच्छजलपूरिता । वहत्यपरगङ्गेह तुङ्गभद्रा सरिद्वरा ॥ ३ ॥ तत्र मुम्मुदिसिंहेयो मृगेन्द्रसमतेजसा । स्वीचक्रे विक्रमेणैव राज्यं निहतकण्टकम् ॥ ४ ॥ स पृथग् आक्रमन्तौ तौ निर्वर्त्य यादवेश्वरौ । कालेऽपि यवनाक्रान्ते बुभुजे मेदिनीं चिरम् ॥ ५ ॥ तस्मिन् कालक्षयाद् याते पञ्चत्वमात्मजस्ततः । तस्य कम्पिलदेवस्तु प्रशसास वसुन्धराम् ॥ ६ ॥ तुरुष्कः कृच्छ्रमापन्नस्तस्मिन् पृथ्वीं प्रशासति । घोर्शाष्पः कश्चिद् आगत्य प्रपेदे शरणं किल ॥ ७ ॥ अग्रे गत्वा नृपस्याऽथ कम्पिलेशस्य दुःखशः । घोर्शाष्पस्तमुवाचेदमसंस्थुलं ततो वचः ॥ ८ ॥ तुरुष्क उवाच दुष्टेभ्योऽन्विष्यमाणस्य यदि चेद् अभयं नृप । प्राप्यमत्र गृहाणाऽस्मान्नो चेद् यास्यामि कुत्रचित् ॥ ९ ॥ राजोवाच कोऽसि कस्य सुतश्चाऽसि किंवीर्यः किंपराक्रमः । भयं ते विद्यते कस्मात्तन्ममाऽचक्ष्व तत्त्वशः ॥ १० ॥ तुरुष्क उवाच तुरुष्काणां कुले जातो घोर्शाष्पश्चाऽस्मि नामतः । किमात्मश्लाघया ब्रूयां वीरं जना वदन्त्युत ॥ ११ ॥ घीयाशुद्दीनराजस्य स्वस्रीयोऽस्मि कुलोद्वहः । तुरुष्केशस्य हिंस्रस्य भ्रातृव्यो मन्दभाक्तथा ॥ १२ ॥ वृद्धे जीवति सम्राजि नीत्या च विक्रमेण च । सिन्धोरशमयं कूले मोघलानामधिक्रमम् ॥ १३ ॥ पश्चाद्दिवं प्रयाते तु तस्मिन् भूपे नृशंसकः । अस्तम्भयत्तुरुष्काणां नृपत्वे स्वं मुहम्मदः ॥ १४ ॥ निष्कारणप्रमत्तेभ्यो राड्भ्यो यतोऽतिदुःसहः । गुणस्तस्माद् मदाक्रान्तः गुणिनः समपीडयत् ॥ १५ ॥ सागराख्यस्य दुर्गस्य स्वाम्यहं नाऽसहे ततः । दम्भोन्मीलितनेत्रस्य तस्यैतल्लोकमर्दनम् ॥ १६ ॥ श्रुत्वैतद् रुषमापन्नो हा दीनं द्रोहिनं न्विति । सः प्रकृतिविरोधी मां तदा कष्टम् अघोषयत् ॥ १७ ॥ स्वयं रणभुवं गन्तुं भीरुः स तुग्लुघाधमः । राष्ट्रियं गुर्जरात्रस्य प्रति मां समप्रेषयत् ॥ १८ ॥ स्थितानां च सदा सत्य ईशस्यैकस्य भक्तितः । तद्दूतवाक्यगामिनां विजयो विद्यते ध्रुवम् ॥ १९ ॥ हा तात मातेति च वेदनार्तः क्वणञ्छकृद्मूत्रकफानुलिप्तः । वरं मृतः किं भवने किमाजौ सन्दष्टदन्तछदभीमवक्त्रः ॥ २० ॥ किं वा विजित्याऽथ नयें सुदुष्टं दण्डं प्रति तं बत दण्डनीयम् । किं वा मृतः स्वर्गसुखं भुजेयं पश्यामि हानिं न रणेषु किञ्चित् ॥ २१ ॥ अन्तमेति यदा सर्वो जातोऽस्मिन्पृथिवीतले । क्लीबवज्जीवनादत्र मृत्युरेव गरीयसी ॥ २२ ॥ विचिन्त्यैवं समीपस्थांस्तुरुष्कान्सुकुलोद्भवान् । असृजं महतीं सेनां कृत्वा वचोभिरात्मसात् ॥ २३ ॥ तस्माद् मलिकजादानं महत्या सेनया सह । अशृणोञ्च गृहीतुं मां देवाद्रिमागतं द्रुतम् ॥ २४ ॥ सैनिकान्स्वान्समुत्साह्य स्वयं च दृढमानसः । उल्लोल्लां रभसा तीर्त्वा प्रातर् गोदावरीं नदीम् ॥ २५ ॥ तीरे च कटकं तस्याः सन्निवेश्याऽसि संस्कृतः । व्यूढा सेना मया तत्र त्रिभागा सर्वतोमुखा । विचार्याऽत्मगुणान्सम्यक्स्थानगुणाश्च बुद्धिशः ॥ २६ ॥ बह्रामं दक्षिणे वामे बेदारं मध्यमे तथा । संस्थाप्याऽत्मानमत्रस्तः प्रत्यैक्षे बलमाश्रितः ॥ २७ ॥ वाजिपादावघातैः सो नभः कुर्वन्रजोमयम् । पदातिवारणैर्युक्तो मलिग्जादा समाययौ ॥ २८ ॥ तत्र शूरान्महेष्वासान्मृगराजसामान्युधि । तातारखान-माजीर-रिजाश्रफुल्लमुल्कादीन् ॥ २९ ॥ सेनां चाऽर्णवसंकल्पां गजांश्च गिरिसंनिभान् । मेघोपमान्हयान्दृष्ट्वा भीतांस्तत्रैवमब्रवम् ॥ ३० ॥ एकोऽपि हन्त्येव यथा मृगेन्द्रो मृगान्वनान्ते सुबहून्स्वशक्त्या । ज्ञात्वा तदेतत्समरेऽत्र वीरा विहाय शोकं भवतेद्धशौर्याः ॥ ३१ ॥ आत्मनश्च गुणान्वीक्ष्य दोषान्वीक्ष्य रिपोस्तथा । युध्यध्वं दृढसंकल्पा न हि शोचितुमर्हथ ॥ ३२ ॥ मुक्तेऽथ समरे राजन् कोलाहलो महान् अभूत् । अदृश्यत शरैः शुक्लैः शतचन्द्रं नभस्तलम् ॥ ३३ ॥ मयि च रिपुसन्यस्य हृदं भिन्दति विक्रमात् । जयं हस्तगतप्रायं तदा हाऽचिन्तयं किल ॥ ३४ ॥ उपसर्गाः क्रियायोगे ममाऽजायन्त भाग्यजम् । अश्नुते ना फलं लोके कालो वै दुरतिक्रमः ॥ ३५ ॥ निकृष्टोऽपसदानां सः कृतघ्नानां पुरःसरः । शत्रुसैन्ये च बह्रामो निजां सेनामयोजयत् ॥ ३६ ॥ पराभवं ध्रुवं दृष्ट्वा विद्रोहात्तस्य द्रोहिनः । अगच्छं प्रपलाय्याऽहं सागरदुर्गमुत्तमम् ॥ ३७ ॥ कोशाभावाद् बलाभावाद् अन्नाभावात् कथञ्चन । क्षेमो दुर्गे न वासोऽस्मिंस्त्यक्तो दुर्गोऽपि सागरः ॥ ३८ ॥ शरणार्थी ततो दुर्गाद् द्रवमानोऽहमागतः । पूर्ववृत्तं मया सर्वमुक्तं राजन्यथातथम् ॥ ३९ ॥ दुष्टेभ्योऽन्विष्यमाणस्य यदि चेद् अभयं नृप । प्राप्यमत्र गृहाणाऽस्मान्नो चेद् यास्यामि कुत्रचित् ॥ ४० ॥ राजोवाच त्वयाऽपि त्वज्जनैश्चाऽपि पीडितोऽहं नु यद्यपि । तथाऽपि शरणापन्नं नाऽवमंस्ये कथञ्चन ॥ ४१ ॥ को बिभ्रन्नाम लोकेऽस्मिन्नृपस्य स्याद् अनुद्यमः । त्रातुं नरं भयग्रस्तं स्वीयं शरणमागतम् ॥ ४२ ॥ स्वागतं शक भद्रं ते यावत्स्नायुषु मेऽसृजः । स्युस्तावत्त्वामहं रक्ष्ये प्राणैरपि वचो मम ॥ ४३ ॥ भौतिकेन शरीरेण नश्वरेण चिरस्थितम् । लप्स्यमानं यशः को वा परिहर्तुं समीहते ॥ ४४ ॥ दुर्गं तस्मिन् दृढीकर्तुं व्यस्ते राज्ञि तु काश्चन । याता यामास्ततः कश्चित् तुरुष्कदूत आययौ ॥ ४५ ॥ दूत उवाच सहोषितं त्वया राजन् तुरुष्केशस्य श्रीमतः । कृतघ्नं कृतज्ञस्यैकं कथञ्चिच्छ्रुश्रुमो वयम् ॥ ४६ ॥ यदीच्छसे मृषां सम्यग् उग्रवीर्यस्य काञ्चन । पांशुलं मे प्रयच्छेमं घोर्शाष्पं यवनाधमम् ॥ ४७ ॥ श्रेयस्करं वचस्तूर्णं यदि शाहानुशाहिनः । न चाऽनुमंस्यसे चेत्त्वं हनिष्यसे न संशयः ॥ ४८ ॥ प्रतिदेहि त्वरं राजन् घोर्शाष्पं विघ्नकारिणम् । मृडोऽपि न पुनः सम्राड् नश्चेत्था मर्षयिष्यति ॥ ४९ ॥ परात्मबलमूढाश्चेद् अवरोत्स्यन्ति कुक्कुराः । हस्तिनां यदि पन्थानं पेक्ष्यन्ते ह्यचिरात् किल ॥ ५० ॥ राजोवाच मत्तेभकुम्भस्थलबद्धनेत्रं पञ्चाननं चेद् अवमन्यते सः । कर्ता पुनः किं विगतेन्द्रियः सन् सुतीक्ष्णदन्ताग्रगृभीतकण्ठः ॥ ५१ ॥ आचारो ह्ययमाम्नातः शाश्वतो नो रघोः कुले । इयुः प्राणा इयान्नैव वचनं नः कथञ्चन ॥ ५२ ॥ दूत उवाच यद्येवं व्यवहारस्ते सम्राजं नो मृडं प्रति । मृगयाव्यसनी हन्ता सत्यं त्वा मृगवद् भुवि ॥ ५३ ॥ इत्युक्त्वा निर्ययौ दूतो मानी शाहानुशाहिनः । अस्वीकारं वहन् राज्ञो भर्तारं स्वं पुनः प्रति ॥ ५४ ॥ यातेषु केषुचित्तस्माद्दिनेषु मतिमान्नृपः । शुश्राव नवदुर्गस्थ आक्रमणाय रोषतः ॥ ५५ ॥ कुम्मटदुर्गम् आयान्तं ससैन्यं यवनेश्वरम् । सेनानीभिर्युतं वीरैर्देवगिरेर्द्रुतं द्रुतः ॥ ५६ ॥ मन्त्रयित्वा सभासद्भिः सर्वैश्च मन्त्रिभिः सह । रक्षितुं कुम्मटं दुर्गं निर्णिन्ये कम्पिलीश्वरः ॥ ५७ ॥ दृढीकर्तुं ततो दुर्गं बैचप्पं मन्त्रिणं पुरः । अन्वञ्चमात्मजं राजा काटण्णं समप्रेषयत् । सघोर्शाष्पं शूरं शूरः सत्क्षात्र इव मूर्तिमान् ॥ ५८ ॥ ततो मुहम्मदः शाही देवगिर्यां स्वयं स्थितः । रक्नुद्दीनं समादिशद् आनय द्रोहिनं न्विति ॥ ५९ ॥ अपरेऽहनि संरुद्ध्य दुर्गं शकोऽभितस्ततः । तत्परो निशायां भेत्तुं विश्वस्त आत्मनो बले ॥ ६० ॥ तस्थौ परं स निःसृत्य सशको नृपतेः सुतः । व्यूढं बिभेद तौरुष्कं निःशङ्को धावयन् न्वरीन् ॥ ६१ ॥ आघातं राजपुत्रस्य रौद्रं ते त्वसहिष्णवः । पलायां चक्रिरे तूर्णं तुरुष्का वा इतस्ततः ॥ ६२ ॥ प्रपलाय्याऽरिसैन्यं सः श्रिया परमया युतः । आनिन्येऽरितुरङ्गानां विजयी द्विसहस्रकम् ॥ ६३ ॥ सो नूनचतुराङ्गेन जितोऽनूनबलाधिपः । संगृह्य केषुचित्तु सेनां सप्ताहेषु रुषाऽक्रमत् ॥ ६४ ॥ यस्मिन् सेनापतिं शाही कुद्बुल्मुल्कं चकार ह । शूरममर्षयन्क्रुद्धो रक्नुद्दीनं पराजितम् ॥ ६५ ॥ मलिकानुचरः सोऽपि संस्कृत्य सैन्यम् आत्मनः । दण्डितुं कम्पिलं भूपं प्रयाणं च चकार ह ॥ ६६ ॥ दुर्गारोधं विचिन्त्यैवं भव्यं शाहानुशाहिनः । समन्त्री स्थानदार्ढार्थ्यं दत्तचित्तो बभौ नृपः ॥ ६७ ॥ सङ्ग्रहाद् अश्मनां वीरः शस्त्राणां च तथा नृपः । भटानाम् उग्रवीर्याणां ज्ञानिनां चैव मन्त्रिणाम् ॥ ६८ ॥ अन्नादीनामपां राजा बालुकानां च मन्त्रितः । कुम्मटं कृच्छ्रजय्यं सः कम्पिलः सममन्यत ॥ ६९ ॥ जीर्णोद्धारेऽसमाप्तेऽथ दुर्गस्याऽरिचमूपतिः । त्वराऽगम्याऽरुरोधेष्टं कुद्बुल्मुल्कः प्रतापवान् ॥ ७० ॥ पूर्वात्सेनापतेः स्वं सो दिदर्शयिषुर् उत्तमम् । द्वितीयेऽहनि दुर्गस्य समारेभेऽथ भेदनम् ॥ ७१ ॥ दिग्भ्यस्तिसृभ्य एवैके समये युगपत् तिरः । प्रोत्साहयन्भटान्मा मा काफिरेषु ममर्षत ॥ ७२ ॥ प्राकारं केचिद् आरुह्य वर्मिताः समया शकाः । सन्नधान् रक्षतोऽमर्षा युयुधिरे भयं विना ॥ ७३ ॥ राजाऽपि कृच्छ्रमापन्नो गर्जन् रोषेण सिंहवत् । आनय्य वाहिनीमेकां दुर्गभेदिन आपतत् ॥ ७४ ॥ युध्यमानं नृपं चाऽग्रे दृष्ट्वा संलब्धचेतसः । पुनरुत्साहिता विश्वे बभुवू रक्षणे भटाः ॥ ७५ ॥ शकाः केचिच्छरैर्विद्धः कृत्ताः केचित्तथाऽपरे । उष्णबालुभिरुष्टाश्च मम्रुरन्ये ततस्ततः ॥ ७६ ॥ निदाघ आम्रवत्पेतुस्तुरुष्का दलिता यदा । विरराम तदाऽघातस्तद्रात्रौ रक्षतां वशे ॥ ७७ ॥ अपरेद्युः प्रभातेऽथ कम्पिलेन महौजसा । दुर्गस्याऽग्रे चमूर्व्यूढा नियुद्धं प्रतिमुञ्चता ॥ ७८ ॥ तद्दृष्ट्वाय प्रतिव्यूढा कुद्बुल्मुल्केन साम्प्रतम् । सेनाऽदृश्यत रुष्टेन प्रतिकर्म चिकीर्षता ॥ ७९ ॥ संस्थाप्य पक्षयोर्वाजिवारणौ शस्त्रविच्छकः । चिचाय मध्यमे पत्तिं बुधस्तुरुष्कधन्विनाम् ॥ ८० ॥ श्रीमत्कम्पिलदेवस्य सुनुर्ज्येष्ठः प्रतापवान् । सहाऽश्वेनाऽर्वता धीमान् रामनाथो भयङ्करः ॥ ८१ ॥ बलेन व्यूहमध्येऽरेः पतित्वाऽथ महौजसा । विक्लवान्धावयामास भयभीतान्मृगान् इव ॥ ८२ ॥ निहता बहवस्तस्मिन्तुरुष्का दिवसेऽरयः । बद्धाः केचिद् गृहीताश्च केचिद् अन्ये भयातुराः ॥ ८३ ॥ कथञ्चित् प्रपलाय्यैव ररक्षुर् असुम् आत्मनः । उष्णासृगाक्तसर्वाङ्गः संज्वलन् इव तेजसा । रामनाथश्चकास्ति स्म यथोषसि दिवाकरः ॥ ८४ ॥ येन केन प्रकारेण संरक्ष्याऽत्मानम् एयिवान् । सम्राजं ज्ञापयामास कुद्बुल्मुल्कः पराजयम् ॥ ८५ ॥ असहिष्णुस्ततः क्रुद्धः काफिरेभ्यः पराजयम् । समुवाच वचः सर्वान् मुहम्मदोऽनुगान् रुषा ॥ ८६ ॥ ईश्वरोपचिताः सन्तो हाऽपनोह्तृभिरप्युत । भयभीता जिताः सङ्ख्ये कालान्ते किं वदिष्यथ ॥ ८७ ॥ आ लौहित्याच्चा वाह्लिकादा विजेता मुहम्मदः । किन्नु द्वित्र पुराधीशमविजित्य पलायते ॥ ८८ ॥ नाऽपतिष्यद् यदि व्योम नोदजृम्भिष्यताऽवनिः । अत्यक्षं किल कर्मैतन्मनसा मे प्रतिश्रुतम् ॥ ८९ ॥ सो महत्तरया शाहि सेनयाऽलं चकार ह । स्वयं मलिकजादानमभिक्रमाय नव्यसे ॥ ९० ॥ देवगिरेः स निःसृत्य मलिग्जादा महाबलः । नौभिरुत्तीर्य कल्लोलां भीमसेनः सरिद्वराम् ॥ ९१ ॥ कृष्णां कर्णाटकं देशमनावृष्ट्याकुले तदा । आजगामाऽथ काले न तत्परं तत्परस्तदा ॥ ९२ ॥ गन्तुं सर्वे निदाघेऽसौ कृष्णाकुले बलं बुधः । स्थापयामास धैर्येण भूतिमिच्छन्हृदा दृढः ॥ ९३ ॥ परिच्छदपथं सम्यक्संसृज्याऽमित्रखादकः । समारेभे प्रयाणं सः प्राप्ते हि मासि चाऽश्विने ॥ ९४ ॥ अभितश्च समावृत्य कुम्मटदुर्गमुत्तमम् । चकार शिबिकां वीरः सैनिकैरयुतैः सह ॥ ९५ ॥ बहिर्निःसरणं राजा कम्पिलदेव आत्मवान् । नियुद्धं च रिपोः सेनाबाहुल्यात् समुपैक्षत ॥ ९६ ॥ स द्वयोर्मासयोर्धीर आवृत्याऽहर्निशं पुरम् । नाऽन्यमवसरं कञ्चिद् मलिग्जादा ददौ नृपम् ॥ ९७ ॥ राड् चाऽवशिष्टनूनान्नमाकलय्य पुरं तदा । कर्तव्यं किमतश्चेति मन्त्रिभिः सममन्त्रयत् ॥ ९८ ॥ चिन्तयित्वा ततस्तेऽपि नष्टप्रायं नु कुम्मटम् । द्रुत्वाऽतो नवदुर्गं हि गन्तव्यमिति मेनिरे ॥ ९९ ॥ निशिथीनीतमोगुप्ता मार्जारा इव निःस्वराः । कथञ्चिच्छलयित्वा ते पलायामासुर् आद् भटाः ॥ १०० ॥ यत्पञ्चभिः सहस्रैस्ते पञ्चायुतप्रजं पुरम् । बुधाः संमेनिरे तस्माद् अपर्याप्तं परिच्छदम् ॥ १०१ ॥ अन्नादिकमपर्याप्तं वीक्ष्य घुर्णितमानसः । संहृताः समुवाचेदं कम्पिलः सकलाः प्रजाः ॥ १०२ ॥ राजोवाच अद्य श्वो वा ध्रुवं सेना पुरं शाहानुशाहिनः । आगन्तेमं न पर्याप्तः सर्वेभ्यो विद्यते घसिः ॥ १०३ ॥ निर्गच्च्छत विकीर्णा वै यावद् अवसरो न्विह । आगतेषु पुनस्तेषु नाऽवसरमवाप्स्यथ ॥ १०४ ॥ अविजितेषु चाऽस्मासु युष्माकम् अभयोऽस्ति कम् । यदि जिता वयं कार्ये प्रमाणमीश्वरस्ततः ॥ १०५ ॥ अपरेद्युर्मलिग्जादा त्यक्तं रक्षितृभिर्बुधः । सकलं लुण्ठयित्य्वा तं प्रययौ सबलस्ततः ॥ १०६ ॥ द्वयोश्च दिनयोर्यात्रां कृत्वा सः पुर आहितः । भटानां नवदुर्गं चाऽजगाम निर्जितः क्रुधा ॥ १०७ ॥ आ मासाद् युयुधे शूरः कम्पिलो महतीं चमूम् । तदन्ते निर्जितप्रायम् आत्मानं सममन्यत ॥ १०८ ॥ ततस्तुरुष्कमाहूय घोर्शाष्पं विघ्नकारिणम् । राजोवाच वचो धीरो ध्रुवं मत्वा पराजयम् ॥ १०९ ॥ राजोवाच म्रियन्ते धेनवो हन्त म्रियन्ते बन्धवः प्रियाः । नरोऽपि म्रियते कीर्तिर्म्रियते न परेयुषः ॥ ११० ॥ श्वो निःसृत्य वयं दुर्गात्पतित्वा च रिपोर्बलम् । हता घ्नन्तः परां कीर्तिम् अवाप्स्यामो वीरेप्सिताम् ॥ १११ ॥ रक्षार्थं प्रेषयिष्यामि त्वां यादवेश्वरं प्रति । अवश्यं वीरबल्लालो रक्षिता शरणागतम् ॥ ११२ ॥ सदृशेऽवसरे वीरो महिमशाहिरात्मवान् । त्यत्याजाऽश्रयदं नैव शूरं हम्मीरभूपतिम् ॥ ११३ ॥ घोर्शाष्पस्तु परं भीरुर्नोत्सेहे वीरपूजितम् । कर्तुं कर्मोपपन्नं च वचो राज्ञोऽप्यमन्यत ॥ ११४ ॥ कांश्चिद् भटान् नियुज्याऽथ शरण्यो धर्मवान् नृपः । सहापत्यं सदारं च घोर्शाष्पं समप्रेषयत् ॥ ११५ ॥ भटैरङ्गीकृतं युद्धं स्त्रीभिरिष्टो हुताशनः । राज्ञः कम्पिलदेवस्य परार्थं जीवमुज्झतः ॥ ११६ ॥ ततः प्रजानामधिपः प्रभाते प्रवर्तमाने समरेऽतिशूरः । निःसृत्य दुर्गात् सभटः पदातीर् यातयन् घातयतः कबन्धान् ॥ ११७ ॥ प्रवर्तयन् सर्वत एव वीरो रक्तप्रवाहेण भयं पपात । क्षमाम् अलङ्कृत्य शरैर्विलिप्तः सः सूर्यमण्डलभिद् आद् बभूव ॥ ११८ ॥ ते प्रासादा निरुपमगुणास्ताः प्रसन्नास्तरुण्यो राज्यं तच्च द्रविणबहुलं ते द्विपास्ते तुरङ्गाः । त्यक्तुं यन्न प्रभवति जनः किञ्चिद् एकं परार्थं सर्वं त्यक्त्वा समिति पतितो हन्त कम्पीलदेवः ॥ ११९ ॥ पञ्चत्वं निर्जगामैवं शरीरं तस्य भूभृतः । कीर्तिः परं शरण्यस्य नाऽस्तमेति कथञ्चन ॥ १२० ॥ कम्पण उवाच मृते तु कम्पिले राज्ञि घोर्शाष्पः किं चकार ह । किमुत रक्षितो राज्ञा त्यक्तो वा शाहिनो भयात् ॥ १२१ ॥ माधव उवाच वृद्धः सो वीरबल्लालो नेच्छन्युद्धमथाऽपरम् । धोर्शाष्पं ससुतं राजा मलिकं प्रत्यप्रेषयत् ॥ १२२ ॥ शिरश्छित्त्वा मलिग्जादा घोर्शाष्पस्य क्रूरो जयी । घासे संस्थाप्य सम्राजे कृतकर्मा न्वप्रेषयत् ॥ १२३ ॥ विजित्य निर्गृहीतेषु तेषु मलिकजादना । भटेषु सङ्गमस्याऽसन्सुताः पञ्च महाबलाः ॥ १२४ ॥ नीता दिल्लीं च ये पश्चात् तत आगत्य दक्षिणान् । जिग्युर्देशान्बहून्वीरा बाहुबलं समाश्रिताः ॥ १२५ ॥ मधुरायाश्च विद्राव्य यवनान्सकलांस्त्वया । कृतं कर्मोपपन्नं ते तेषां कुलज कम्पण ॥ १२६ ॥
IAST (Transliteration)
mādhava uvāca prāṇabhājaḥ śvasantīti kimu citraṃ dharātale | yaḥ kīrtyā smaryate prāptajannmāntaraḥ sa jīvati || 1 || astyagastyapadajyotsnāpāvanīkṛtabhūtale | deśaḥ karṇāṭako nāma vipule dakṣiṇāpathe || 2 || kiṣkindhāmabhisiñcantī nīlācchajalapūritā | vahatyaparagaṅgeha tuṅgabhadrā saridvarā || 3 || tatra mummudisiṃheyo mṛgendrasamatejasā | svīcakre vikrameṇaiva rājyaṃ nihatakaṇṭakam || 4 || sa pṛthag ākramantau tau nirvartya yādaveśvarau | kāle’pi yavanākrānte bubhuje medinīṃ ciram || 5 || tasmin kālakṣayād yāte pañcatvamātmajastataḥ | tasya kampiladevastu praśasāsa vasundharām || 6 || turuṣkaḥ kṛcchramāpannastasmin pṛthivīṃ praśāsati | ghorśāṣpaḥ kaścid āgatya prapede śaraṇaṃ kila || 7 || agre gatvā nṛpasyā’tha kampileśasya duḥkhaśaḥ | ghorśāṣpastamuvācedamasaṃsthulaṃ tato vacaḥ || 8 || turuṣka uvāca duṣṭebhyo’nviṣyamāṇasya yadi ced abhayaṃ nṛpa | prāpyamatra gṛhāṇā’smānno ced yāsyāmi kutracit || 9 || rājovāca ko’si kasya sutaścā’si kiṃvīryaḥ kiṃparākramaḥ | bhayaṃ te vidyate kasmāttanmamā’cakṣva tattvaśaḥ || 10 || turuṣka uvāca turuṣkāṇāṃ kule jāto ghorśāṣpaścā’smi nāmataḥ | kimātmaślāghayā brūyāṃ vīraṃ janā vadantyuta || 11 || ghīyāśuddīnarājasya svasrīyo’smi kulodvahaḥ | turuṣkeśasya hiṃsrasya bhrātṛvyo mandabhāktathā || 12 || vṛddhe jīvati samrāji nītyā ca vikrameṇa ca | sindhoraśamayaṃ kūle moghalānāmadhikramam || 13 || paścāddivaṃ prayāte tu tasmin bhūpe nṛśaṃsakaḥ | astambhayatturuṣkāṇāṃ nṛpatve svaṃ muḥammadaḥ || 14 || niṣkāraṇapramattebhyo rāḍbhyo yato’tiduḥsahaḥ | guṇastasmād madākrāntaḥ guṇinaḥ samapīḍayat || 15 || sāgarākhyasya durgasya svāmyahaṃ nā’sahe tataḥ | dambhonmīlitanetrasya tasyaitallokamardanam || 16 || śrutvaitad ruṣamāpanno hā dīnaṃ drohinaṃ nviti | saḥ prakṛtivirodhī māṃ tadā kaṣṭam aghoṣayat || 17 || svayaṃ raṇabhuvaṃ gantuṃ bhīruḥ sa tuglughādhamaḥ | rāṣṭriyaṃ gurjarātrasya prati māṃ samapreṣayat || 18 || sthitānāṃ ca sadā satya īśasyaikasya bhaktitaḥ | taddūtavākyagāmināṃ vijayo vidyate dhruvam || 19 || hā tāta māteti ca vedanārtaḥ kvaṇañchakṛdmūtrakaphānuliptaḥ | varaṃ mṛtaḥ kiṃ bhavane kimājau sandaṣṭadantachadabhīmavaktraḥ || 20 || kiṃ vā vijityā’tha nayeṃ suduṣṭaṃ daṇḍaṃ prati taṃ bata daṇḍanīyam | kiṃ vā mṛtaḥ svargasukhaṃ bhujeyaṃ paśyāmi hāniṃ n raṇeṣu kiñcit || 21 || antameti yadā sarvo jāto’sminpṛthivītale | klībavajjīvanādatra mṛtyureva garīyasī || 22 || vicintyevaṃ samīpasthāṃsturuṣkānsukulodbhavān | asṛjaṃ mahatīṃ senāṃ kṛtvā vacobhirātmasāt || 23 || tasmād malikajādānaṃ mahatyā senayā saha | aśṛṇoñca gṛhītuṃ māṃ devādrimāgataṃ drutam || 24 || sainikānsvānsamutsāhya svayaṃ ca dṛḍhamānasaḥ | ullollāṃ rabhasā tīrtvā prātar godāvarīṃ nadīm || 25 || tīre ca kaṭakaṃ tasyāḥ sanniveśyā’si saṃskṛtaḥ | vyūḍhā senā mayā tatra tribhāgā sarvatomukhā | vicāryā’tmaguṇānsamyaksthānaguṇāśca buddhiśaḥ || 26 || bahrāmaṃ dakṣiṇe vāme bedāraṃ madhyame tathā | saṃsthāpyā’tmānamatrastaḥ pratyaikṣe balamāśritaḥ || 27 || vājipādāvaghātaiḥ so nabhaḥ kurvanrajomayam | padātivāraṇairyukto maligjādā samāyayau || 28 || tatra śūrānnamaheṣvāsānnmṛgarājasāmānyudhi | tātārakhāna-mājīra-rijāśraphullamulkādīn || 29 || senāṃ cā’rṇavasaṅkalpāṃ gajāṃśca girisaṃnibhān | meghopamānhayāndṛṣṭvā bhītāṃstatraivamabravam || 30 || eko’pi hantyeva yathā mṛgendro mṛgānvanānte subahūnsvāśaktyā | jñātvā tadetatsamare’tra vīrā vihāya śokaṃ bhavateddhaśauryāḥ || 31 || ātmanaśca guṇānvīkṣya doṣānvīkṣya ripostathā | yudhyadhvaṃ dṛḍhasaṅkalpā na hi śocitum arhatha || 32 || mukte’tha samare rājan kolāhalo mahān abhūt | adṛśyata śaraiḥ śuklaiḥ śatacandraṃ nabhastalam || 33 || mayi ca ripusanyasya hṛdaṃ bhindati vikramāt | jayaṃ hastagataprāyaṃ tadā hā’cintayaṃ kila || 34 || upasargāḥ kriyāyoge mamā’jāyanta bhāgyajam | aśnute nā phalaṃ loke kālo vai duratikramaḥ || 35 || nikṛṣṭo’pasadānāṃ saḥ kṛtaghnānāṃ puraḥsaraḥ | śatrusainye ca bahrāmo nijāṃ senāmayojayat || 36 || parābhavaṃ dhruvaṃ dṛṣṭvā vidrohāttasya drohinaḥ | agacchaṃ prapalāyyā’haṃ sāgaradurgamuttamam || 37 || kośābhāvād balābhāvād annābhāvāt kathañcana | kṣemo durge na vāso’smiṃstyakto durgo’pi sāgaraḥ || 38 || śaraṇārthī tato durgād dravamāno’hamāgataḥ | pūrvavṛttaṃ mayā sarvamuktaṃ rājanyathātatham || 39 || duṣṭebhyo’nviṣyamāṇasya yadi ced abhayaṃ nṛpa | prāpyamatra gṛhāṇā’smānno ced yāsyāmi kutracit || 40 || rājovāca tvayā’pi tvajjanaiścā’pi pīḍito’haṃ nu yadyapi | tathā’pi śaraṇāpannaṃ nā’vamaṃsye kathañcana || 41 || ko bibhrannāma loke’sminnṛpasya syād anudyamaḥ | trātuṃ naraṃ bhayagrastaṃ svīyaṃ śaraṇamāgatam || 42 || svāgataṃ śaka bhadraṃ te yāvatsnāyuṣu me’sṛjaḥ | syustāvattvāmahaṃ rakṣye prāṇairapi vaco mama || 43 || bhautikena śarīreṇa naśvareṇa cirasthitam | lapsyamānaṃ yaśaḥ ko vā parihartuṃ samīhate || 44 || durgaṃ tasmin dṛḍhīkartuṃ vyaste rājñi tu kāścana | yātā yāmāstataḥ kaścit turuṣkadūta āyayau || 45 || dūta uvāca sahoṣitaṃ tvayā rājan turuṣkeśasya śrīmataḥ | kṛtaghnaṃ kṛtajñasyakaṃ kathañcicchuśrumo vayam || 46 || yadīcchase mṛṣāṃ samyag ugravīryasya kāñcana | pāṃśulaṃ me prayacchemaṃ ghorśāṣpaṃ yavanādhamam || 47 || śreyaskaraṃ vacastūrṇaṃ yadi śāhānmuśāhinaḥ | na cā’numaṃsyase cettvaṃ haniṣyase na saṃśayaḥ || 48 || pratidehi tvaraṃ rājan ghorśāṣpaṃ vighnakāriṇam | mṛḍo’pi na punaḥ samrāḍ naścetthā marṣayiṣyati || 49 || parātmabalamūḍhāśced avarotsyanti kukkurāḥ | hastināṃ yadi panthānaṃ pekṣyante hyacirāt kila || 50 || rājovāca mattebhakumbhasthalabaddhanetraṃ pañcānanaṃ ced avamanyate saḥ | kartā punaḥ kiṃ vigatendriyaḥ san sutīkṣṇadantāgragṛbhītakaṇṭhaḥ || 51 || ācāro hyayamāmnātaḥ śāśvato no raghoḥ kule | iyuḥ prāṇā iyānnaiva vacanaṃ naḥ kathañcana || 52 || dūta uvāca yadyevaṃ vyavahāraste samrājaṃ no mṛḍaṃ prati | mṛgayāvyasanī hantā satyaṃ tvā mṛgavad bhuvi || 53 || ityuktvā niryayau dūto mānī śāhānmuśāhinaḥ | asvīkāraṃ vahan rājño bhartāraṃ svaṃ punaḥ prati || 54 || yāteṣu keṣucittasmāddineṣu matimānnṛpaḥ | śuśrāva navadurgastha ākramaṇāya roṣataḥ || 55 || kummaṭadurgam āyāntaṃ sasainyaṃ yavaneśvaram | senānībhiryutaṃ vīrairdevagirerdrutaṃ drutaḥ || 56 || mantrayitvā sabhāsadbhiḥ sarvaiśca mantribhiḥ saha | rakṣituṃ kummaṭaṃ durgaṃ nirṇinye kampilīśvaraḥ || 57 || dṛḍhīkartuṃ tato durgaṃ baicappaṃ mantriṇaṃ puraḥ | anvañcamātmajaṃ rājā kāṭaṇṇaṃ samapreṣayat | saghorśāṣpaṃ śūraṃ śūraḥ satkṣātra iva mūrtimān || 58 || tato muḥammadaḥ śāhī devagiryāṃ svayaṃ sthitaḥ | raknuddīnaṃ samādiśad ānaya drohinaṃ nviti || 59 || apare’hani saṃruddhya durgaṃ śako’bhitastataḥ | tatparo niśāyāṃ bhettuṃ viśvasta ātmano bale || 60 || tasthau paraṃ sa niḥsṛtya saśako nṛpateḥ sutaḥ | vyūḍhaṃ bibheda tauruṣkaṃ niḥśaṅko dhāvayan nvarīn || 61 || āghātaṃ rājaputrasya raudraṃ te tvasahiṣṇavaḥ | palāyāṃ cakrire tūrṇaṃ turuṣkā vā itastataḥ || 62 || prapalāyyā’risainyaṃ saḥ śriyā paramayā yutaḥ | āninye’rituraṅgānāṃ vijayī dvisahasrakam || 63 || so nūnacaturāṅgena jito’nūnabalādhipaḥ | saṅgṛhya keṣucittu senāṃ saptāheṣu ruṣā’kramat || 64 || yasmin senāpatiṃ śāhī kudbulmulkaṃ cakāra ha | śūramamarṣayankruddho raknuddīnaṃ parājitam || 65 || malikānucaraḥ so’pi saṃskṛtya sainyam ātmanaḥ | daṇḍituṃ kampilaṃ bhūpaṃ prayāṇaṃ ca cakāra ha || 66 || durgārodhaṃ vicintyivaṃ bhavyaṃ śāhānmuśāhinaḥ | samantrī sthānadārḍhārthyaṃ dattacitto babhau nṛpa || 67 || saṅgrahād aśmanāṃ vīraḥ śastrāṇāṃ ca tathā nṛpaḥ | bhaṭānām ugravīryāṇāṃ jñānināṃ caiva mantriṇām || 68 || annādīnāmapāṃ rājā bālukānāṃ ca mantritaḥ | kummaṭaṃ kṛcchrajayyaṃ saḥ kampilaḥ samamanyata || 69 || jīrṇoddhāre’samāpte’tha durgasyā’ricamūpatiḥ | tvarā’gamyā’rurodheṣṭaṃ kudbulmulkaḥ pratāpavān || 70 || pūrvātsenāpateḥ svaṃ so didarśayiṣur uttamam | dvitīye’hani durgasya samārebhe’tha bhedanam || 71 || digbhyastisṛbhya evaike samaye yugapat tiraḥ | protsāhayanbhaṭānmā mā kāphireṣu mamarṣata || 72 || prākāraṃ kecid āruhya varmitāḥ samayā śakāḥ | sannadhān rakṣato’marṣā yuyudhire bhayaṃ vinā || 73 || rājā’pi kṛcchramāpanno garjan roṣeṇa siṃhavat | ānayya vāhinīmekāṃ durgabhedina āpatat || 74 || yudhyamānaṃ nṛpaṃ cā’gre dṛṣṭvā saṃlabdhacetasaḥ | punarutsāhitā viśve babhuvū rakṣaṇe bhaṭāḥ || 75 || śakāḥ keciccharairviddhaḥ kṛttāḥ kecittathā’pare | uṣṇabālubhiruṣṭāśca mamruranye tatastataḥ || 76 || nidāgha āmravatpetusturuṣkā dalitā yadā | virarāma tadā’ghātastadrātrau rakṣatāṃ vaśe || 77 || aparedyuḥ prabhāte’tha kampilena mahaujasā | durgasyā’gre camūrvyūḍhā niyuddhaṃ pratimuñcatā || 78 || taddṛṣṭvāya prativyūḍhā kudbulmulkena sāmpratam | senā’dṛśyata ruṣṭena pratikarma cikīrṣatā || 79 || saṃsthāpya pakṣayorvājivāraṇau śastravicchakaḥ | cicāya madhyame pattiṃ budhasturuṣkadhanvinām || 80 || śrīmatkampiladevasya sunurjyeṣṭhaḥ pratāpavān | sahā’śvenā’rvatā dhīmān rāmanātho bhayaṅkaraḥ || 81 || balena vyūhamadhye’reḥ patitvā’tha mahaujasā | viklavāndhāvayāmāsa bhayabhītānmṛgān iva || 82 || nihatā bahavastasminturuṣkā divase’rayaḥ | baddhāḥ kecid gṛhītāśca kecid anye bhayāturāḥ || 83 || kathañcit prapalāyyiva rakṣur asum ātmanaḥ | uṣṇāsṛgāktasarvāṅgaḥ sañjvalan iva tejasā | rāmanāthaścakāsti sma yathoṣasi divākaraḥ || 84 || yena kena prakāreṇa saṃrakṣyā’tmānam eyivān | samrājaṃ jñāpayāmāsa kudbulmulkaḥ parājayam || 85 || asahiṣṇustataḥ kruddhaḥ kāphirebhyaḥ parājayam | samuvāca vacaḥ sarvān muḥammado’nugān ruṣā || 86 || īśvaropacitāḥ santo hā’panohtṛbhirapyuta | bhayabhītā jitāḥ saṅkhye kālānte kiṃ vadiṣyatha || 87 || ā lauhityāccā vāhlikādā vijetā muḥammadaḥ | kinnu dvitra purādhīśamavijitya palāyate || 88 || nā’patiṣyad yadi vyoma nodajṛmbhiṣyatā’vaniḥ | atyakṣaṃ kila karmaitanmanasā me pratiśrutam || 89 || so mahattarayā śāhi senayā’laṃ cakāra ha | svayaṃ malikajādānamabhikramāya navyase || 90 || devagireḥ sa niḥsṛtya maligjādā mahābalaḥ | naubhiruttīrya kallollāṃ bhīmasenaḥ saridvarām || 91 || kṛṣṇāṃ karṇāṭakaṃ deśamanāvṛṣṭyākule tadā | ājagāmā’tha kāle na tatparaṃ tatparastadā || 92 || gantuṃ sarve nidāghe’sau kṛṣṇākule balaṃ budhaḥ | sthāpayāmāsa dhairyeṇa bhūtimicchanhṛdā dṛḍhaḥ || 93 || paricchadapathaṃ samyaksaṃsṛjyā’mitrakhādakaḥ | samārebhe prayāṇaṃ saḥ prāpte hi māsi cā’śvine || 94 || abhitaśca samāvṛtya kummaṭadurgamuttamam | cakāra śibikāṃ vīraḥ sainikairayutaiḥ saha || 95 || bahirniḥsaraṇaṃ rājā kampiladeva ātmavān | niyuddhaṃ ca ripoḥ senābāhulyāt samupaikṣata || 96 || sa dvayormāsayordhīra āvṛtyā’harniśaṃ puram | nā’nyamavasaraṃ kañcid maligjādā dadau nṛpam || 97 || rāḍ cā’vaśiṣṭanūnānnamākalayya puraṃ tadā | kartavyaṃ kimataśceti mantribhiḥ samamantrayat || 98 || cintayitvā tataste’pi naṣṭaprāyaṃ nu kummaṭam | drutvā’to navadurgaṃ hi gantavyamiti menire || 99 || niśithīnītamoguptā mārjārā iva niḥsvarāḥ | kathañcicchalayitvā te palāyāmāsur ād bhaṭāḥ || 100 || yatpañcabhiḥ sahasraiste pañcāyutaprajaṃ puram | budhāḥ saṃmenire tasmād aparyāptaṃ paricchadam || 101 || annādikamaparyāptaṃ vīkṣya ghurṇitamānasaḥ | saṃhṛtāḥ samuvācedaṃ kampilaḥ sakalāḥ prajāḥ || 102 || rājovāca adya śvo vā dhruvaṃ senā puraṃ śāhānmuśāhinaḥ | āgantemaṃ na paryāptaḥ sarvebhyo vidyate ghasiḥ || 103 || nirgaccchata vikīrṇā vai yāvad avasaro nvih | āgateṣu punasteṣu nā’vasaramavāpsyatha || 104 || avijiteṣu cā’smāsu yuṣmākam abhayo’sti kam | yadi jitā vayaṃ kārye pramāṇamīśvarastataḥ || 105 || aparedyurmaligjādā tyaktaṃ rakṣitṛbhirbudhaḥ | sakalaṃ luṇṭhayityvā taṃ prayayau sabalastata || 106 || dvayośca dinayoryātrāṃ kṛtvā saḥ pura āhitaḥ | bhaṭānāṃ navadurgaṃ cā’jagāma nirjitaḥ krudhā || 107 || ā māsād yuyudhe śūraḥ kampilo mahatīṃ camūm | tadante nirjitaprāyam ātmānaṃ samamanyata || 108 || tatasturuṣkamāhūya ghorśāṣpaṃ vighnakāriṇam | rājovāca vaco dhīro dhruvaṃ matvā parājayam || 109 || rājovāca mriyante dhenavo hanta mriyante bandhavaḥ priyāḥ | naro’pi mriyate kīrtirmriyante na pareyuṣaḥ || 110 || śvo niḥsṛtya vayaṃ durgātpatitvā ca riporbalam | hatā ghnantaḥ parāṃ kīrtim avāpsyāmo vīrepsitām || 111 || rakṣārthaṃ preṣayiṣyāmi tvāṃ yādaveśvaraṃ prati | avaśyaṃ vīraballālo rakṣitā śaraṇāgatam || 112 || sadṛśe’vasare vīro mahimaśāhirātmavān | tyatyājā’śrayadaṃ naiva śūraṃ hammīrabhūpatim || 113 || ghorśāṣpastu paraṃ bhīrurnotsehe vīrapūjitam | kartuṃ karmopapannaṃ ca vaco rājño’pyamanyata || 114 || kāṃścid bhaṭān niyujyā’tha śaraṇyo dharmavān nṛpaḥ | sahāpatyaṃ sadāraṃ ca ghorśāṣpaṃ samapreṣayat || 115 || bhaṭairaṅgīkṛtaṃ yuddhaṃ strībhirīṣṭo hutāśanaḥ | rājñaḥ kampiladevasya parārthaṃ jīvamujjhatāḥ || 116 || tataḥ prajānāmadhipaḥ prabhāte pravartamāne samare’tiśūraḥ | niḥsṛtya durgāt sabhaṭaḥ padātīr yātayan ghātayataḥ kabandhān || 117 || pravartayan sarvata eva vīro raktapravāheṇa bhayaṃ papāta | kṣamām alaṅkṛtya śarairviliptaḥ saḥ sūryamaṇḍalabhid ād babhūva || 118 || te prāsādā nirupamaguṇāstāḥ prasannāstaruṇyo rājyaṃ tacca draviṇabahulaṃ te dvipāste turaṅgāḥ | tyaktuṃ yanna prabhavati janaḥ kiñcid ekaṃ parārthaṃ sarvaṃ tyaktvā samiti patito hanta kampīladevaḥ || 119 || pañcatvaṃ nirjagāmaivaṃ śarīraṃ tasya bhūbhṛtaḥ | kīrtiḥ paraṃ śaraṇyasya nā’stameti kathañcana || 120 || kampaṇa uvāca mṛte tu kampile rājñi ghorśāṣpaḥ kiṃ cakāra ha | kimuta rakṣito rājñā tyakto vā śāhino bhayāt || 121 || mādhava uvāca vṛddhaḥ so vīraballālo necchanyuddhamathā’param | dhorśāṣpaṃ sasutaṃ rājā malikaṃ pratyapreṣayat || 122 || śiraśchittvā maligjādā ghorśāṣpasya krūro jayī | ghāse saṃsthāpya samrāje kṛtakarmā nvapreṣayat || 123 || vijitya nirgṛhīteṣu teṣu malikajādanā | bhaṭeṣu saṅgamasyā’san sutāḥ pañca mahābalāḥ || 124 || nītā dillīṃ ca ye paścāt tata āgatya dakṣiṇān | jigyurdeśānbahūnvīrā bāhubalaṃ samāśritāḥ || 125 || madhurāyāśca vidrāvya yavanānsakalāṃstvayā | kṛtaṃ karmopapannaṃ te teṣāṃ kulaja kampaṇa || 126 ||